Sanskrit Bhasha Pracharni Sabha

संस्कृत भाषा प्रचारिणी सभा · Nagpur · Est. 1950

शास्त्रकलापाः

'पाथेयं’, सभायाः विज्ञानोपक्रम:

सङ्गणकीय-संस्कृतमिति एषः सभाया: विज्ञानाधारित: वार्षिक: पाठ्यक्रमः । यथा संस्कृतभाषायां तथैव सङ्गणकविज्ञाने समानं पाण्डित्यं भजन् सभायाः कार्यवाहः डॉ. चन्द्रगुप्त-वर्णेकरः पाठ्यक्रममिमं भारते प्रथमतया उद्घोषितवान् । पाठ्यक्रममनुलक्ष्य सभया परीक्षायाः आयोजनमपि प्रतिवर्षं क्रियते। सम्प्रति ‘संस्कृत-अल्गोरिदम्स' इति विषये डॉ. चन्द्रगुप्त-वर्णेकरस्य व्याख्यानानि भारते सर्वत्र डिण्डिमायन्ते।

विषयेऽस्मिन् विशेषं जागरणं सम्प्रति जगति वरीवर्ति। सभया नवविज्ञानक्षेत्रेऽस्मिन् एतावत् कालपर्यन्तं यत् तपः तप्तम्, या वा कार्यशृङ्खला संरचिता तत्सर्वेषां सर्वासां फलरूपेण एतस्मिन् विषये विशेष जागरणं जगति सर्वत्र दरीदृश्यते। विज्ञानविषयकस्य संस्कृत-साहित्यस्य सप्रयोगं संशोधनं श्रीदत्तसुदर्शनविज्ञानमञ्चे डॉ. प्रा. डिडोळकर-प्रशान्त होले-वर्ययो: मार्गदर्शने 'पाथेयं'-नाम्ना प्रवर्तते, यस्य प्रकटनं काले काले शोधपत्रैः सभासम्मेलनेषु भवति